ण्य-आदयो गोत्र-प्रत्ययाः । ण्यान्तात् क्षत्रियगोत्राद् आर्षाद् ञितश् च प्रयोः अण्डञोर्यूनि लुग् भवति । ण्यान्तात् तावत् -- कुर्व्-आदिभ्यो ण्यः (*४,१।१५१) , तस्माद् यूनि इञ्, तस्य लुक् । कौरव्यः पिता । कौरव्यः पुत्रः । ननु च कौरव्य-शब्दः तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिः इति ? क्षत्रियगोत्रस्य तत्र ग्रहणम्, कुरु-न्-आदिभ्यो ण्यः (*४,१।१७२) इत्य् अनेन विहितस्य, इदं तु ब्राह्मणगोत्रम्, कुर्व्-आदिभ्यो ण्यः (*४,१।१५१) इति । क्षत्रिय -- ऋष्य्-अन्धक-वृष्णि-कुरुभ्यश् च (*४,१।११४) इत् यण्, तस्माद् यूनि इञ्, तस्य लुक् । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । आर्ष -- ऋष्यण् (*४,१।११४), तस्माद् यूनि इञ्, तस्य लुक् । वासिष्ठः पिता । वासिष्ठः पुत्रः । ञित् - अनृष्य्-आनन्तर्ये विद-आदिभ्यो ऽञ् (*४,१।१०४), तस्माद् यूनि इञ्, तस्य लुक् । बैदः पिता । वैदः पुत्रः । अणः खल्व् अपि -- तिक-आदिभ्यः फिञ् (*४,१।१५४), तस्माद् यूनि प्राग् दीव्यतो ऽण् (*४,१।८३), तस्य लुक् । तैकायनिः पिता । तैकायनिः पुत्रः । एतेभ्यः इति किम् ? शिव-आदिभ्यो ऽण् (*४,१।११२), तस्माद् यूनि अत इञ् (*४,१।९५), तस्य लुग् न भवति । कौहडः पिता । कौहडि पुत्रः । यूनि इति किम् ? वामरथ्यस्य छात्राः वामरथाः । कुर्व्-आदिभ्यो ण्यः (*४,१।१५१) इति ण्यः, तस्मात् कण्व-आदिभ्यो गोत्रे (*४,२।१११) इति शैषिको ऽण् । तस्य लुग् न भवति । अणिञोः इति किम् ? दाक्षेरपत्यं युवा दाक्षायणः । अब्राह्मणगोत्रमात्रमात्राद्युवप्रत्ययस्तोपसङ्ह्यानम् । बौधिः पिता । बौधिः पुत्रः । जाबालिः पिता । जाबालिः पुत्रः । औदुम्बरिः पिता । औदुम्बरिः पुत्रः । भाण्डीजङ्घिः पिता । भाण्डीजङ्घिः पुत्रः । शाल्व-अवयव-लक्षन इञ्, तस्मात् फक्, तस्य लुक् । पैलादि-दर्शनात् सिद्धम् ॥ पैल-आदिब्यश् च
ṇya-ādayo gotra-pratyayāḥ / ṇyāntāt kṣatriyagotrād ārṣād ñitaś ca prayoḥ aṇḍañoryūni lug bhavati / ṇyāntāt tāvat -- kurv-ādibhyo ṇyaḥ (*4,1.151) , tasmād yūni iñ, tasya luk / kauravyaḥ pitā / kauravyaḥ putraḥ / nanu ca kauravya-śabdaḥ tikādiṣu paṭhyate, tataḥ phiñā bhavitavyam, kauravyāyaṇiḥ iti ? kṣatriyagotrasya tatra grahaṇam, kuru-n-ādibhyo ṇyaḥ (*4,1.172) ity anena vihitasya, idaṃ tu brāhmaṇagotram, kurv-ādibhyo ṇyaḥ (*4,1.151) iti / kṣatriya -- ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca (*4,1.114) it yaṇ, tasmād yūni iñ, tasya luk / śvāphalkaḥ pitā / śvāphalkaḥ putraḥ / ārṣa -- ṛṣyaṇ (*4,1.114), tasmād yūni iñ, tasya luk / vāsiṣṭhaḥ pitā / vāsiṣṭhaḥ putraḥ / ñit - anṛṣy-ānantarye vida-ādibhyo 'ñ (*4,1.104), tasmād yūni iñ, tasya luk / baidaḥ pitā / vaidaḥ putraḥ / aṇaḥ khalv api -- tika-ādibhyaḥ phiñ (*4,1.154), tasmād yūni prāg dīvyato 'ṇ (*4,1.83), tasya luk / taikāyaniḥ pitā / taikāyaniḥ putraḥ / etebhyaḥ iti kim ? śiva-ādibhyo 'ṇ (*4,1.112), tasmād yūni ata iñ (*4,1.95), tasya lug na bhavati / kauhaḍaḥ pitā / kauhaḍi putraḥ / yūni iti kim ? vāmarathyasya chātrāḥ vāmarathāḥ / kurv-ādibhyo ṇyaḥ (*4,1.151) iti ṇyaḥ, tasmāt kaṇva-ādibhyo gotre (*4,2.111) iti śaiṣiko 'ṇ / tasya lug na bhavati / aṇiñoḥ iti kim ? dākṣerapatyaṃ yuvā dākṣāyaṇaḥ / abrāhmaṇagotramātramātrādyuvapratyayastopasaṅhyānam / baudhiḥ pitā / baudhiḥ putraḥ / jābāliḥ pitā / jābāliḥ putraḥ / audumbariḥ pitā / audumbariḥ putraḥ / bhāṇḍījaṅghiḥ pitā / bhāṇḍījaṅghiḥ putraḥ / śālva-avayava-lakṣana iñ, tasmāt phak, tasya luk / pailādi-darśanāt siddham // paila-ādibyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.