भृश इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यो ऽच्व्यन्तेभ्यो भुवि भवत्य् अर्थे क्यङ् प्रत्ययो भवति, हलन्तानां च लोपः । अच्वेः इति प्रत्येकम् अभिसम्बध्यते । किम् अर्थं पुन रिदम् उच्यते, यावता भवति योगे च्विर् विधीयते, तेनोक्तार्थत्वाच् च्व्यन्तेभ्यो न क्यङ् भविष्यति ? तत्सादृश्यप्रतिपत्त्यर्थं तर्हि च्वि-प्रतिषेधः क्रियते । अभूत-तद्भाव-विषयेभ्यो भृशादिभ्यः क्यङ् प्रत्ययः । अभृशो भृशो भवति भृशायते । शीघ्रायते । भृश । शीघ्र । मन्द । चपल । पण्डित । उत्सुक । उन्मनस् । अभिमनस् । सुमनस् । दुर्मनस् । रहस् । रेहस् । शश्वत् । बृहत् । वेहत् । नृषत् । शुधि । अधर । ओजस् । वर्चस् । भृशादिः । अच्वेः इति किम् ? भृशीभवति ॥ लोहितादि-डाज्भ्यः क्यष्
bhṛśa ity evam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ / acveḥ iti pratyekam abhisambadhyate / kim arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati ? tatsādṛśyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate / abhūta-tadbhāva-viṣayebhyo bhṛśādibhyaḥ kyaṅ pratyayaḥ / abhṛśo bhṛśo bhavati bhṛśāyate / śīghrāyate / bhṛśa / śīghra / manda / capala / paṇḍita / utsuka / unmanas / abhimanas / sumanas / durmanas / rahas / rehas / śaśvat / bṛhat / vehat / nṛṣat / śudhi / adhara / ojas / varcas / bhṛśādiḥ / acveḥ iti kim ? bhṛśībhavati // lohitādi-ḍājbhyaḥ kyaṣ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.