लोहितादिभ्यो डाजन्तेभ्यश् च भवत्य् अर्थे क्यष् प्रत्ययो भवति । लोहितायति, लोहितयते । डाजन्तेभ्यः - पटपटायति, पटपटायते । लोहितडाज्भ्यः क्यष् वचनम्, भृशादिष्वितराणि । यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङ् एव, अपरिपठितेभ्यस् तु क्यष् एव भवति । वर्मायति, वर्मायते । निद्रयति, निद्रायते । करुणायति, करुणायते । कृपायति, कृपायते । आकृतिगणो ऽयम् । यथा च ककारः सामान्यग्रहणार्थो ऽनुबध्यते नः क्ये (*१,४।१५) इति । न हि पठितानां मध्ये नकारान्तः शब्दो ऽस्ति । कृभ्वस्तिभिर् इव क्यषा ऽपि योगे डाज् भवति इत्य् एतद् एव वचनम् ज्ञापकम् । अच्वेः इत्य् अनुवृत्तेर् अभूत-तद्भावे क्यष् विज्ञायते । लोहित । नील । हरित । पीत । मद्र । फेन । मन्द । लोहितादिः ॥ कष्टाय क्रमणे
lohitādibhyo ḍājantebhyaś ca bhavaty arthe kyaṣ pratyayo bhavati / lohitāyati, lohitayate / ḍājantebhyaḥ - paṭapaṭāyati, paṭapaṭāyate / lohitaḍājbhyaḥ kyaṣ vacanam, bhṛśādiṣvitarāṇi / yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas tu kyaṣ eva bhavati / varmāyati, varmāyate / nidrayati, nidrāyate / karuṇāyati, karuṇāyate / kṛpāyati, kṛpāyate / ākṛtigaṇo 'yam / yathā ca kakāraḥ sāmānyagrahaṇārtho 'nubadhyate naḥ kye (*1,4.15) iti / na hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti / kṛbhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam / acveḥ ity anuvṛtter abhūta-tadbhāve kyaṣ vijñāyate / lohita / nīla / harita / pīta / madra / phena / manda / lohitādiḥ // kaṣṭāya kramaṇe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.