इज्-आदिर् यो धातुर् गुरुमान् ऋच्छति-वर्जितः, तस्माच् च लिटि परत आम् प्रत्ययो भवति । ईह चेष्टायाम् । ऊह वितर्के । ईहाञ्चक्रे । ऊहाञ्चक्रे । इजादेः इति किम् ? ततक्ष । ररक्ष । गुरुमतः इति किम् ? इयज । उवप । अनृच्छः इति किम् ? आनर्च्छ, आनर्च्छतुः, आनर्च्छौः । ऊर्णोतेश् च प्रतिषेधो वक्तव्यः । प्रोर्णुनाव । अथ वा -- वाच्य ऊर्णोर्णुवद्भावो यङ्-प्रसिद्धिः प्रयोजनम् । आमश् च प्रतिषेध-अर्थम् एकाचश्चेडुपग्रहात् ॥ दय-अय-आसश् च
ij-ādir yo dhātur gurumān ṛcchati-varjitaḥ, tasmāc ca liṭi parata ām pratyayo bhavati / īha ceṣṭāyām / ūha vitarke / īhāñcakre / ūhāñcakre / ijādeḥ iti kim ? tatakṣa / rarakṣa / gurumataḥ iti kim ? iyaja / uvapa / anṛcchaḥ iti kim ? ānarccha, ānarcchatuḥ, ānarcchauḥ / ūrṇoteś ca pratiṣedho vaktavyaḥ / prorṇunāva / atha vā -- vācya ūrṇorṇuvadbhāvo yaṅ-prasiddhiḥ prayojanam / āmaś ca pratiṣedha-artham ekācaśceḍupagrahāt // daya-aya-āsaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.