इषिकर्म यो धतुर् इषिणैव समानकर्तृकः, तस्माद् इच्छायाम् अर्थे वा सन् प्रत्ययो भवति । कर्मत्वं समानकर्तृकत्वं च धातोर् अर्थद्वारकम् । कर्टुम् इच्छति । चिकीर्षति । जिहीर्षति । धातु-ग्रहनं किम् ? सोपसर्गाद् उत्पत्तिर् मा भूत् । प्रकऋतुम् ऐच्छत् प्राचिकीर्षत् । कर्मणः इति किम् ? करणान् मा भूत् । गमनेन+इच्छति । समानकर्तृकत् इति किम् ? देवदत्तस्य भोजनम् इच्छति यज्ञदत्तः । इच्छायाम् इति किम् ? कर्तुं जानाति । वावचनाद् वाक्यम् अपि भवति । धातोः इति विधानाद् अत्र सनः आर्धधातुक-सञ्ज्ञा भवति, न पूर्वत्र । आशङ्कायाम् उपसंख्यानम् । आशङ्के पतिष्यति कूलम्, पिपतिषति कूलम् । श्वा मुमूर्षति । इच्छासन्नन्तात् प्रतिषेधो वक्तव्यः । चिकीर्षितुम् इच्छति । विशेषणं किम् ? जुगुप्सिषते । मीमांसिषते । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सनन्तान् न सनिष्यते ॥ सुप आत्मनः क्यच्
iṣikarma yo dhatur iṣiṇaiva samānakartṛkaḥ, tasmād icchāyām arthe vā san pratyayo bhavati / karmatvaṃ samānakartṛkatvaṃ ca dhātor arthadvārakam / karṭum icchati / cikīrṣati / jihīrṣati / dhātu-grahanaṃ kim ? sopasargād utpattir mā bhūt / prakaṛtum aicchat prācikīrṣat / karmaṇaḥ iti kim ? karaṇān mā bhūt / gamanena+icchati / samānakartṛkat iti kim ? devadattasya bhojanam icchati yajñadattaḥ / icchāyām iti kim ? kartuṃ jānāti / vāvacanād vākyam api bhavati / dhātoḥ iti vidhānād atra sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra / āśaṅkāyām upasaṃkhyānam / āśaṅke patiṣyati kūlam, pipatiṣati kūlam / śvā mumūrṣati / icchāsannantāt pratiṣedho vaktavyaḥ / cikīrṣitum icchati / viśeṣaṇaṃ kim ? jugupsiṣate / mīmāṃsiṣate / śaiṣikānmatubarthīyācchaiṣiko matubarthikaḥ / sarūpaḥ pratyayo neṣṭaḥ sanantān na saniṣyate // supa ātmanaḥ kyac
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.