हरतेर् धातोर् अनुद्यमने वर्तमानात् कर्मणि उपपदे अच् प्रत्ययो भवति । अणो ऽपवादः । उद्यमनम् उत्क्षेपणम् । अंशं हरति अंशहरः । रिक्थहरः । अनुद्यमने इति किम् ? भारहारः । अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधौष्षु ग्रहेर् उपसङ्ख्यानम् । शक्तिग्रहः । लाङ्गलग्रहः । अङ्कुशग्रहः । यष्टिग्रहः । तोमरग्रहः । घटग्रहः । घटीग्रहः । धनुर्ग्रहः । सूत्रे च धार्यर्थे । सूत्रग्रहः । सूत्रं धारयति इत्य् अर्थः । सूत्रग्राहः एव अन्यः ॥ वयसि च
harater dhātor anudyamane vartamānāt karmaṇi upapade ac pratyayo bhavati / aṇo 'pavādaḥ / udyamanam utkṣepaṇam / aṃśaṃ harati aṃśaharaḥ / rikthaharaḥ / anudyamane iti kim ? bhārahāraḥ / acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhauṣṣu graher upasaṅkhyānam / śaktigrahaḥ / lāṅgalagrahaḥ / aṅkuśagrahaḥ / yaṣṭigrahaḥ / tomaragrahaḥ / ghaṭagrahaḥ / ghaṭīgrahaḥ / dhanurgrahaḥ / sūtre ca dhāryarthe / sūtragrahaḥ / sūtraṃ dhārayati ity arthaḥ / sūtragrāhaḥ eva anyaḥ // vayasi ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.