निन्द-आदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु वुञ् प्रतयो भवति । पञ्चम्य्-अर्थे प्रथमा । क्लिश उपतापे, क्लिशू विबाधने । द्वयोर् अपि ग्रहणम् । निन्दकः । हिंसकः । क्लेशकः । खादकः । विनाशकः । परिक्षेपकः । परिराटकः । परिवादकः । व्याभाषकः । असूयकः । ण्वुलैव सिद्ध वुञ्-विधानं ज्ञापन-अर्थं, ताच्छीलिकेषु वा ऽसरूपन्यायेन तृजादयो न भवन्ति इति ॥ देवि-क्रशोश् च+उपसर्गे
ninda-ādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu vuñ pratayo bhavati / pañcamy-arthe prathamā / kliśa upatāpe, kliśū vibādhane / dvayor api grahaṇam / nindakaḥ / hiṃsakaḥ / kleśakaḥ / khādakaḥ / vināśakaḥ / parikṣepakaḥ / parirāṭakaḥ / parivādakaḥ / vyābhāṣakaḥ / asūyakaḥ / ṇvulaiva siddha vuñ-vidhānaṃ jñāpana-arthaṃ, tācchīlikeṣu vā 'sarūpanyāyena tṛjādayo na bhavanti iti // devi-kraśoś ca+upasarge
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.