आढ्यादिषु कर्मसु उपपदेषु च्व्य्-अर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन् प्रत्ययो भवति । च्वेर् विकल्पेन विधानाद् द्विविधाः च्व्यर्थाः, च्व्यन्ता अच्व्यन्ता श्च । तत्र च्व्यन्ताः पर्युदस्यन्ते । अनाढ्यं आढ्यं कुर्वन्ति अनेन आढ्यङ्करणम् । सुभगङ्करणम् । स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् । अन्धङ्करणम् । प्रियङ्करणम् । च्व्यर्थेषु इति किम् ? आढ्यं तैलेन कुर्वन्ति अभ्यञ्जयन्ति इत्य् अर्थः । प्रकृतेर् अविवक्षायाम् अभूतप्रादुर्भावे ऽपि प्रत्युदाहरणं भवति । अच्वौ इति किम् ? आढ्यीकुर्वन्त्य् अनेन । ननु च ख्युना मुक्ते ल्युटा भवितव्यम्, न च ल्युटः ख्युनश् च विशेषो ऽस्ति, तत्र किं प्रतिषेधेन ? एवं तर्हि प्रतिषेध-सामर्थ्यात् ख्युनि असति ल्युड् अपि न भवति, तेन ल्युटो ऽप्य् अयम् अर्थतः प्रतिषेधः । उत्तरार्थश् च च्वि-प्रतिषेधः क्रियते ॥ कर्तरि भुवः खिष्णुच्-खुकञौ
āḍhyādiṣu karmasu upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo bhavati / cver vikalpena vidhānād dvividhāḥ cvyarthāḥ, cvyantā acvyantā śca / tatra cvyantāḥ paryudasyante / anāḍhyaṃ āḍhyaṃ kurvanti anena āḍhyaṅkaraṇam / subhagaṅkaraṇam / sthūlaṅkaraṇam / palitaṅkaraṇam / nagnaṅkaraṇam / andhaṅkaraṇam / priyaṅkaraṇam / cvyartheṣu iti kim ? āḍhyaṃ tailena kurvanti abhyañjayanti ity arthaḥ / prakṛter avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati / acvau iti kim ? āḍhyīkurvanty anena / nanu ca khyunā mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha-sāmarthyāt khyuni asati lyuḍ api na bhavati, tena lyuṭo 'py ayam arthataḥ pratiṣedhaḥ / uttarārthaś ca cvi-pratiṣedhaḥ kriyate // kartari bhuvaḥ khiṣṇuc-khukañau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.