पूर्वं परिप्रश्नः, पश्चादाख्यानम् । सूत्रे ऽल्पाच्तरस्य पूर्वनिपातः । परिप्रश्ने आख्याने च गम्यमाने धतोः इञ् प्रत्ययो भवति, चकारात् ण्वुल् अपि । विभाष-ग्रहणात् परो ऽपि यः प्राप्नोति, सो ऽपि भवति । कां त्वं कारिमकार्षीः, कां कारिकाम् अकार्षीः, कां क्रियामकार्षीः, कां कृत्यामकार्षीः, का कृतिमकार्षीः ? सर्वां कारिमकार्षम्, सर्वां कारिकाम् अकार्षम्, सर्वां क्रियामकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षम् । कां गणिमजीगणः, कां गणिकामजीगणः, कां गणनामजीगणः ? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम् । एवं कां याजिम्, कां याजिकाम्, कां याचिम्, कां यचिकाम्, कां पाचिम्, कां पाचिकाम् कां पचाम्, कां पक्तिम्, कां पाठिम्, कां पाठिकाम्, कां पठितिम् इति द्रष्टव्यम् । आख्यानपरिप्रश्नयोः इति किम् ? कृतिः । हृतिः ॥ पर्याय-अर्ह-र्ण-उत्पत्तिषु ण्वुच्
pūrvaṃ paripraśnaḥ, paścādākhyānam / sūtre 'lpāctarasya pūrvanipātaḥ / paripraśne ākhyāne ca gamyamāne dhatoḥ iñ pratyayo bhavati, cakārāt ṇvul api / vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi bhavati / kāṃ tvaṃ kārimakārṣīḥ, kāṃ kārikām akārṣīḥ, kāṃ kriyāmakārṣīḥ, kāṃ kṛtyāmakārṣīḥ, kā kṛtimakārṣīḥ ? sarvāṃ kārimakārṣam, sarvāṃ kārikām akārṣam, sarvāṃ kriyāmakārṣam, sarvāṃ kṛtyāmakārṣam, sarvāṃ kṛtimakārṣam / kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ gaṇanām / evaṃ kāṃ yājim, kāṃ yājikām, kāṃ yācim, kāṃ yacikām, kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, kāṃ pāṭhikām, kāṃ paṭhitim iti draṣṭavyam / ākhyānaparipraśnayoḥ iti kim ? kṛtiḥ / hṛtiḥ // paryāya-arha-rṇa-utpattiṣu ṇvuc
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.