पर्यायः परिपाटीक्रमः । अर्हणमर्हः, तद्योग्यता । ऋणं तत् यत् परस्य धार्यते । उत्पत्तिः जन्म । एतेष्व् अर्थेषु धातोः ण्वुच् प्रत्ययो भवति । क्तिन्नादीनाम् अपवादः । पर्याये तावत् - भवतः शायिका । भवतो ऽग्रग्रासिका । अर्हे - अर्हति भवान् इक्षुभक्षिकाम् । ऋणे - इक्षुभक्षिकां मे धरयसि । ओदनभोजिकाम् । पयःपायिकाम् । उत्पत्तौ - इक्षुभक्षिका मे उदपादि । ओदनभोजिका । पयःपायिका । विभाषा इत्य् एव, चिकीर्षा उत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरनं स्वर-अर्थम् ॥ आक्रोशे नञ्य् अतिः
paryāyaḥ paripāṭīkramaḥ / arhaṇamarhaḥ, tadyogyatā / ṛṇaṃ tat yat parasya dhāryate / utpattiḥ janma / eteṣv artheṣu dhātoḥ ṇvuc pratyayo bhavati / ktinnādīnām apavādaḥ / paryāye tāvat - bhavataḥ śāyikā / bhavato 'gragrāsikā / arhe - arhati bhavān ikṣubhakṣikām / ṛṇe - ikṣubhakṣikāṃ me dharayasi / odanabhojikām / payaḥpāyikām / utpattau - ikṣubhakṣikā me udapādi / odanabhojikā / payaḥpāyikā / vibhāṣā ity eva, cikīrṣā utpadyate / ṇvuli prakṛte pratyayāntarakaranaṃ svara-artham // ākrośe nañy atiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.