उत अपि इत्य् एतयोः समर्थयोः धातोः लिङ् प्रत्ययो भवति । सर्वलकाराणाम् अपवादः । बाढम् इत्य् अस्मिन्न् अर्थे समानार्थत्वम् अनयोः । उत कुर्यात् । अपि कुर्यात् । उताधीयीत । अप्यधीयीत । बाढमध्येष्यते इत्य् अर्थः । समर्थयोः इति किम्? उत दण्डः पतिष्यति ? अपि द्वारं धास्यति । प्रश्नः प्रच्छादनं च गम्यते । वा-आ-उताप्योः (*३,३।१४१) इति विकल्पो निवृत्तः । इतः प्रभृटि भूते ऽपि लिङ्-निमित्ते क्रिय-अतिपत्तौ नित्यं लृङ् । भविष्यति तु सर्वत्र+एव नित्यः ॥ काम-प्रवेदने ऽकच्चिति
uta api ity etayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati / sarvalakārāṇām apavādaḥ / bāḍham ity asminn arthe samānārthatvam anayoḥ / uta kuryāt / api kuryāt / utādhīyīta / apyadhīyīta / bāḍhamadhyeṣyate ity arthaḥ / samarthayoḥ iti kim? uta daṇḍaḥ patiṣyati ? api dvāraṃ dhāsyati / praśnaḥ pracchādanaṃ ca gamyate / vā-ā-utāpyoḥ (*3,3.141) iti vikalpo nivṛttaḥ / itaḥ prabhṛṭi bhūte 'pi liṅ-nimitte kriya-atipattau nityaṃ lṛṅ / bhaviṣyati tu sarvatra+eva nityaḥ // kāma-pravedane 'kacciti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.