वर्तमान इत्य् एव, सञ्ज्ञायाम् इति च । उणादयः प्रत्ययाः वर्तमाने ऽर्थे सञ्ज्ञायां विषये बहुलं भवन्ति । यतो विहितास् ततो ऽन्यत्र अपि भवन्ति । केचिद् अविहिता एव प्रयोगत उन्नीयन्ते । कृवापाजिमिस्वदिसाध्यशूभ्य उण् । कारुः । वायुः । पायुः । जायुः । मायुः । स्वादुः । साधुः । आशुः । बाहुलकं प्रकृतेस् तनुदृष्टेः प्राय-समुच्चयनाद् अपि तेषाम् । कार्यसशेषविधेश् च तदुक्तं नैगमरूढिभवं हि सुसाधु ॥१॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यन् न पदार्थ-विशेष-समुत्थं प्रत्ययतः प्रकृतेश् च तद् ऊह्यम् ॥२॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश् च ततः परे । कार्याद् विद्याद् अनुबन्धम् एतच् छास्त्रम् उणादिषु ॥३॥ भूते ऽपि दृश्यन्ते
vartamāna ity eva, sañjñāyām iti ca / uṇādayaḥ pratyayāḥ vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ bhavanti / yato vihitās tato 'nyatra api bhavanti / kecid avihitā eva prayogata unnīyante / kṛvāpājimisvadisādhyaśūbhya uṇ / kāruḥ / vāyuḥ / pāyuḥ / jāyuḥ / māyuḥ / svāduḥ / sādhuḥ / āśuḥ / bāhulakaṃ prakṛtes tanudṛṣṭeḥ prāya-samuccayanād api teṣām / kāryasaśeṣavidheś ca taduktaṃ naigamarūḍhibhavaṃ hi susādhu //1// nāma ca dhātujamāha nirukte vyākaraṇe śakaṭasya ca tokam / yan na padārtha-viśeṣa-samutthaṃ pratyayataḥ prakṛteś ca tad ūhyam //2// sañjñāsu dhāturūpāṇi pratyayāś ca tataḥ pare / kāryād vidyād anubandham etac chāstram uṇādiṣu //3// bhūte 'pi dṛśyante
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.