परिमाण-आख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यः घञ् प्रत्ययो भवति । एकस्तण्डुल-निश्चायः । द्वौ शूर्पनिष्पावौ । कॄ विक्षेपे -- द्वौ कारौ । क्रयः काराः । सर्व-ग्रहणम् अपो ऽपि बाधन-अर्थम् । पुरस्ताद् अपवाद-न्यायेन ह्य् अचम् एव बाधेत, न अपम् । परिमाण-आख्यायाम् इति किम् ? निश्चयः । आख्या-ग्रहणं रूढिनिरास-अर्थम् । तेन सङ्ख्या ऽपि गृह्यते, न प्रस्थाद्य् एव । घञ्-अनुक्रमणम् अजपोर् विषये, स्त्री-प्रत्ययास् तु न बाध्यन्ते । एका तिलोच्छित्तिः । द्वे प्रसृती । दारजारौ कर्तरि णिलुक् च । दारयन्ति इति दाराः । जरयन्ति इति जाराः ॥ इङश् च
parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ pratyayo bhavati / ekastaṇḍula-niścāyaḥ / dvau śūrpaniṣpāvau / kṝ vikṣepe -- dvau kārau / krayaḥ kārāḥ / sarva-grahaṇam apo 'pi bādhana-artham / purastād apavāda-nyāyena hy acam eva bādheta, na apam / parimāṇa-ākhyāyām iti kim ? niścayaḥ / ākhyā-grahaṇaṃ rūḍhinirāsa-artham / tena saṅkhyā 'pi gṛhyate, na prasthādy eva / ghañ-anukramaṇam ajapor viṣaye, strī-pratyayās tu na bādhyante / ekā tilocchittiḥ / dve prasṛtī / dārajārau kartari ṇiluk ca / dārayanti iti dārāḥ / jarayanti iti jārāḥ // iṅaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.