कर्म क्रिया । व्यतिहारः परस्पर-करणम् । कर्म-व्यतिहारे गम्यमाने धातोः णच् पत्ययो भवति स्त्रीलिङ्गे वाच्ये । तच् च भावे । चकारो विशेषण-अर्थः णचः स्त्रियाम् अञ् (*५,४।१४) इति । व्यावक्रोशी । व्यावलेखी । व्यावहासी वर्तते । स्त्रियाम् इति किम् ? व्यतिपाको वर्तते । बाधकविषये ऽपि क्वचिद् इष्यते, व्यावचोरी, व्यावचर्ची । इह न भवति । व्यतीक्षा, व्यतीहा वर्तते । व्यात्युक्षी भवति । तद् एतद् वैचित्र्यं कथं लभ्यते ? कृत्य-ल्युटो बहुलम् (*३,३।११३) इति भवति ॥ अभिविधौ भावे इनुण्
karma kriyā / vyatihāraḥ paraspara-karaṇam / karma-vyatihāre gamyamāne dhātoḥ ṇac patyayo bhavati strīliṅge vācye / tac ca bhāve / cakāro viśeṣaṇa-arthaḥ ṇacaḥ striyām añ (*5,4.14) iti / vyāvakrośī / vyāvalekhī / vyāvahāsī vartate / striyām iti kim ? vyatipāko vartate / bādhakaviṣaye 'pi kvacid iṣyate, vyāvacorī, vyāvacarcī / iha na bhavati / vyatīkṣā, vyatīhā vartate / vyātyukṣī bhavati / tad etad vaicitryaṃ kathaṃ labhyate ? kṛtya-lyuṭo bahulam (*3,3.113) iti bhavati // abhividhau bhāve inuṇ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.