छन्दसि इत्य् एव । तुमुनो ऽर्थस् तुम्-अर्थः । तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति । तुमर्थो भावः । कथं ज्ञायते ? वचनसामर्थ्यात् तावद् अयम् कर्तुर् अपकृष्यते । न च अयम् अन्यस्मिन्न् अर्थे तुमुन् आदिश्यते । अनिर्दिष्ट-अर्थाश् च प्रत्ययाः स्वार्थे भवन्ति । स्वार्थश् च धातूनां भाव एव । से - वक्षे रायः । सेन् - ता वामेषे रथानाम् । असे, असेन् - क्रत्वे दक्षाय जीवसे । स्वरे विशेषः । क्षे - प्रेषे भगाय कसेन् - श्रियसे । अध्यै, अध्यैन् - काममुपाचरध्यै । स्वरे विशेषः । कध्यै - इन्द्राग्नी आहुवध्यै । कध्यैन् - श्रियध्यै । शध्यै, शध्यैन् - वायवे पिबध्यै । राधसः सह मादयध्यै । तवै - सोममिन्द्राय पातवै । तवेङ् - दशमे मासि सूतवे । तवेन् - स्वर्देवेषु गन्तवे । कर्तवे । हर्तवे ॥ प्रयै रोहिष्यै अव्यथिष्यै
chandasi ity eva / tumuno 'rthas tum-arthaḥ / tatra chandasi viṣaye dhātoḥ sayādayaḥ pratyayā bhavanti / tumartho bhāvaḥ / kathaṃ jñāyate ? vacanasāmarthyāt tāvad ayam kartur apakṛṣyate / na ca ayam anyasminn arthe tumun ādiśyate / anirdiṣṭa-arthāś ca pratyayāḥ svārthe bhavanti / svārthaś ca dhātūnāṃ bhāva eva / se - vakṣe rāyaḥ / sen - tā vāmeṣe rathānām / ase, asen - kratve dakṣāya jīvase / svare viśeṣaḥ / kṣe - preṣe bhagāya kasen - śriyase / adhyai, adhyain - kāmamupācaradhyai / svare viśeṣaḥ / kadhyai - indrāgnī āhuvadhyai / kadhyain - śriyadhyai / śadhyai, śadhyain - vāyave pibadhyai / rādhasaḥ saha mādayadhyai / tavai - somamindrāya pātavai / taveṅ - daśame māsi sūtave / taven - svardeveṣu gantave / kartave / hartave // prayai rohiṣyai avyathiṣyai
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.