छन्दसि इत्य् एव । शक्नोतौ धाताव् उपपदे छन्दसि विषये तुमर्थे णमुल् कमुल् इत्य् एतौ प्रत्ययु भवतः । णकारो वृद्ध्य्-अर्थः । ककारो गुण-वृद्धि-प्रतिषेध-अर्थः । लकारः स्वर-अर्थः । अग्निं वै देवा विभाजं नाशक्नुवन् । विभक्तुम् इत्य् अर्थः । अपलुम्पं न अशक्नोत् । अपलोप्तुम् इत्य् अर्थः ॥ ईश्वरे तोसुन्-कसुनौ
chandasi ity eva / śaknotau dhātāv upapade chandasi viṣaye tumarthe ṇamul kamul ity etau pratyayu bhavataḥ / ṇakāro vṛddhy-arthaḥ / kakāro guṇa-vṛddhi-pratiṣedha-arthaḥ / lakāraḥ svara-arthaḥ / agniṃ vai devā vibhājaṃ nāśaknuvan / vibhaktum ity arthaḥ / apalumpaṃ na aśaknot / apaloptum ity arthaḥ // īśvare tosun-kasunau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.