छन्दसि इत्य् एव । कृत्यानाम् अर्थो भावकर्मणी । तस्मिन् कृत्य-अर्थे छन्दसि विषये तवै केन् केन्य त्वन् इत्य् एते प्रत्यया भवन्ति । तवै - अन्वेतवै । अन्वेतव्यम् । परिधातवै । परिधातव्यम् । परिस्तरितवै । परिस्तरितव्यम् । केन् - नावगाहे । नावगाहितव्यम् । केन्य - दिदृक्षेण्यः । शुश्रूषेण्यः । दिदृक्षितव्यम् । शुश्रूषितव्यम् । त्वन् - कर्त्वं हविः । कर्तव्यम् । तुमर्थे छन्दसि इति सयादि-सूत्रे ऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर् द्रष्तव्यः ॥ अवचक्षे च
chandasi ity eva / kṛtyānām artho bhāvakarmaṇī / tasmin kṛtya-arthe chandasi viṣaye tavai ken kenya tvan ity ete pratyayā bhavanti / tavai - anvetavai / anvetavyam / paridhātavai / paridhātavyam / paristaritavai / paristaritavyam / ken - nāvagāhe / nāvagāhitavyam / kenya - didṛkṣeṇyaḥ / śuśrūṣeṇyaḥ / didṛkṣitavyam / śuśrūṣitavyam / tvan - kartvaṃ haviḥ / kartavyam / tumarthe chandasi iti sayādi-sūtre 'pi tavai vihitaḥ, tasya tumarthādanyatra kārake vidhir draṣtavyaḥ // avacakṣe ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.