छन्दसि भाव-लक्षणे इति सर्वं निवृत्तम् । अलम् खलु इत्य् एतयोः प्रतिषेध-वाचिनोर् उपपदयोः धातोः क्त्वा प्रत्ययो भवति प्राचाम् आचार्याणां मतेन । अलं कृत्वा । खलु कृत्वा । अलं बाले रुदित्वा । अलं-खल्वोः इति किम् ? मा कार्षीः । प्रतिषेधयोः इति किम् ? अलङ्कारः । प्राचां-ग्रहणं विकल्प-अर्थम् । अलं रोदनेन । वासरूपविधिश् चेत् पूज-अर्थम् ॥ उदीचां माङो व्यतीहारे
chandasi bhāva-lakṣaṇe iti sarvaṃ nivṛttam / alam khalu ity etayoḥ pratiṣedha-vācinor upapadayoḥ dhātoḥ ktvā pratyayo bhavati prācām ācāryāṇāṃ matena / alaṃ kṛtvā / khalu kṛtvā / alaṃ bāle ruditvā / alaṃ-khalvoḥ iti kim ? mā kārṣīḥ / pratiṣedhayoḥ iti kim ? alaṅkāraḥ / prācāṃ-grahaṇaṃ vikalpa-artham / alaṃ rodanena / vāsarūpavidhiś cet pūja-artham // udīcāṃ māṅo vyatīhāre
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.