समानकर्तृकयोः पूर्वकाले इत्य् एव । आभीक्ष्णयम् पौनःपुन्यम् । प्रकृत्यर्थ-विशेषणं च+एतत् । आभीक्ष्ण्य-विशिष्टे ऽर्थे वर्तमानाद् धातोः णमुल् प्रत्ययो भवति, चकारात् क्त्व च । द्विर्वचन-सहितौ क्त्वाणमुलाव् आभीक्ष्ण्यं द्योतयतः, न केवलौ । आभीक्ष्ण्ये द्वे भवतः इत्य् उपसङ्ख्यानाद् द्विर्वचनम् । भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति । पायं पायं व्रजति, पीत्वा पीत्वा व्रजति ॥ न यद्य् अनाकाङ्क्षे
samānakartṛkayoḥ pūrvakāle ity eva / ābhīkṣṇayam paunaḥpunyam / prakṛtyartha-viśeṣaṇaṃ ca+etat / ābhīkṣṇya-viśiṣṭe 'rthe vartamānād dhātoḥ ṇamul pratyayo bhavati, cakārāt ktva ca / dvirvacana-sahitau ktvāṇamulāv ābhīkṣṇyaṃ dyotayataḥ, na kevalau / ābhīkṣṇye dve bhavataḥ ity upasaṅkhyānād dvirvacanam / bhojaṃ bhojaṃ vrajati, bhuktvā bhuktvā vrajati / pāyaṃ pāyaṃ vrajati, pītvā pītvā vrajati // na yady anākāṅkṣe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.