सप्तम्याम् तृतीयायाम् इति वर्तते । समासत्तिः सन्निकर्षः । समासत्तौ गम्यमानायां तृतीया-सप्तम्योः उपपदयोः धातोः णमुल् प्रत्ययो भवति । केशग्राहं युध्यन्ते, केशेषु ग्राहम्, केशैर् ग्राहम् । हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर् ग्राहम् । युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्य् अर्थः ॥ प्रमाणे च
saptamyām tṛtīyāyām iti vartate / samāsattiḥ sannikarṣaḥ / samāsattau gamyamānāyāṃ tṛtīyā-saptamyoḥ upapadayoḥ dhātoḥ ṇamul pratyayo bhavati / keśagrāhaṃ yudhyante, keśeṣu grāham, keśair grāham / hastagrāham, hasteṣu grāham, hastair grāham / yuddhasaṃrambhādatyantaṃ sannikṛṣyante ity arthaḥ // pramāṇe ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.