परीपसायाम् इत्य् एव । द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोः णमुल् प्रत्ययो भवति । यष्टिग्राहं युध्यन्ते, यष्टिं ग्राहम् । लोष्टग्राहम्, लोष्टं ग्राहम् । एवं नाम त्वरते यदायुध-ग्रहणम् अपि न अद्रियते । लोष्तादिकं यत् किंचिद् आसन्नं तद् गृह्णाति ॥ स्वाङ्गे ऽध्रुवे
parīpasāyām ity eva / dvitīyānta upapade parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul pratyayo bhavati / yaṣṭigrāhaṃ yudhyante, yaṣṭiṃ grāham / loṣṭagrāham, loṣṭaṃ grāham / evaṃ nāma tvarate yadāyudha-grahaṇam api na adriyate / loṣtādikaṃ yat kiṃcid āsannaṃ tad gṛhṇāti // svāṅge 'dhruve
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.