परस्मैपदानाम् इत्य् एव, लटो वा इति च । ब्रुवः परस्य लटः परस्मैपदानां पञ्चानाम अदिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति । आह, आहतुः, आहुः । आत्थ, आहथुः । न च भवति । ब्रवीति, ब्रूतः, ब्रुवन्ति । ब्रवीषि, ब्रूथः । पञ्चानाम् इति किम् ? ब्रूथ । ब्रवीमि, ब्रूवः, ब्रूमः । आदितः इति किम् ? परेषां मा भूत् । ब्रुवः इति पुनर् वचनं स्थान्य्-अर्थम्, प्रस्मैपदानाम् एव हि स्यात् ॥ लोटो लङ्वत्
parasmaipadānām ity eva, laṭo vā iti ca / bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma adibhūtānāṃ pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati / āha, āhatuḥ, āhuḥ / āttha, āhathuḥ / na ca bhavati / bravīti, brūtaḥ, bruvanti / bravīṣi, brūthaḥ / pañcānām iti kim ? brūtha / bravīmi, brūvaḥ, brūmaḥ / āditaḥ iti kim ? pareṣāṃ mā bhūt / bruvaḥ iti punar vacanaṃ sthāny-artham, prasmaipadānām eva hi syāt // loṭo laṅvat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.