रेवती इत्य् एवम् आदिभ्यो ऽपत्ये ठक् प्रत्ययो भवति । यथा योगं ढगादीनाम् अपवादः । रैवतिकः । आश्वपालिकः । रेवती । अश्वपाली । मणीपाली । द्वारपाली । वृकवञ्चिन् । वृकग्राह । कर्णग्राह । दण्डग्राह । कुक्कुटाक्ष ॥ गोत्र-स्त्रियाः कुत्सने ण च
revatī ity evam ādibhyo 'patye ṭhak pratyayo bhavati / yathā yogaṃ ḍhagādīnām apavādaḥ / raivatikaḥ / āśvapālikaḥ / revatī / aśvapālī / maṇīpālī / dvārapālī / vṛkavañcin / vṛkagrāha / karṇagrāha / daṇḍagrāha / kukkuṭākṣa // gotra-striyāḥ kutsane ṇa ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.