सौवीरेषु इत्य् एव । कुत्सने इति निवृत्तम् । फाण्टाहृतिमिमतशब्दाभ्यां सौवीर-विषयाभ्याम् अपत्ये ण-फिञौ प्रत्ययु भवतः । फको ऽपवादः । अल्पाच्तरस्य अपूर्वनिपातो लक्षण-व्यभिचार-चिह्नं, तेन यथासङ्ख्यम् इह न भवति इति । फाण्टाहृतः, फाण्टाहृतायनिः । मैमतः, मैमतायनिः । सौवीरेषु इत्य् एव, फाण्टाहृतायनः । मैमतायनः । फाण्टाहृतेः यञ्-इञोश् च (*४,१।१०१) इति फक् । मिमत-शब्दो ऽपि नडादिषु पठ्यते ॥ कुर्वादिभ्यो ण्यः
sauvīreṣu ity eva / kutsane iti nivṛttam / phāṇṭāhṛtimimataśabdābhyāṃ sauvīra-viṣayābhyām apatye ṇa-phiñau pratyayu bhavataḥ / phako 'pavādaḥ / alpāctarasya apūrvanipāto lakṣaṇa-vyabhicāra-cihnaṃ, tena yathāsaṅkhyam iha na bhavati iti / phāṇṭāhṛtaḥ, phāṇṭāhṛtāyaniḥ / maimataḥ, maimatāyaniḥ / sauvīreṣu ity eva, phāṇṭāhṛtāyanaḥ / maimatāyanaḥ / phāṇṭāhṛteḥ yañ-iñoś ca (*4,1.101) iti phak / mimata-śabdo 'pi naḍādiṣu paṭhyate // kurvādibhyo ṇyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.