कुत्सने इत्य् एव, सौवीरेषु इति च । फेः इति फिञो ग्रहणं न फिनः, वृद्ध-अधिकारात् । फिञन्तात् प्रातिपदिकात् सौवीरगोत्राद् अपत्ये छः प्रत्ययो भवति, चकाराट् ठक्, कुत्सने गम्यमाने । यमुन्दस्य अपत्यं, तिकादिभ्यः फिञ् (*४,१।१५४) । तस्यपत्यं यामुन्दायनीयः, यामुन्दायनिकः । कुत्सने इत्येव, यामुन्दायनिः । फिञन्ताद् औत्सर्गिकस्य अण आगतस्य ण्य-क्षत्रिय-अर्ष-ञितो यूनि लुग् अण्-इञोः (*२,४।५८) इति लुक् । सौवीरेसु इत्य् एव, तैकायनिः । यमुन्दश् च सुयामा च वार्ष्यायणिः फिञः स्मृताः । सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् समरेत् ॥ फाण्डाहृति-मिमताभ्यां ण-फिञौ
kutsane ity eva, sauvīreṣu iti ca / pheḥ iti phiño grahaṇaṃ na phinaḥ, vṛddha-adhikārāt / phiñantāt prātipadikāt sauvīragotrād apatye chaḥ pratyayo bhavati, cakārāṭ ṭhak, kutsane gamyamāne / yamundasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154) / tasyapatyaṃ yāmundāyanīyaḥ, yāmundāyanikaḥ / kutsane ityeva, yāmundāyaniḥ / phiñantād autsargikasya aṇa āgatasya ṇya-kṣatriya-arṣa-ñito yūni lug aṇ-iñoḥ (*2,4.58) iti luk / sauvīresu ity eva, taikāyaniḥ / yamundaś ca suyāmā ca vārṣyāyaṇiḥ phiñaḥ smṛtāḥ / sauvīreṣu ca kutsāyāṃ dvau yogau śabdavit samaret // phāṇḍāhṛti-mimatābhyāṃ ṇa-phiñau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.