सेनान्तात् प्रातिपदिकात् लक्षण-शब्दात् कारि-वचनेभ्यश् च अपत्ये ण्यः प्रत्ययो भवति । कारि-शब्दः कारूणां तन्तुवायादीनां वाचकः । कारिषेण्यः । हारिषेण्यः । लाक्षण्यः । कारिभ्यः - तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥ उदीचाम् इञ्
senāntāt prātipadikāt lakṣaṇa-śabdāt kāri-vacanebhyaś ca apatye ṇyaḥ pratyayo bhavati / kāri-śabdaḥ kārūṇāṃ tantuvāyādīnāṃ vācakaḥ / kāriṣeṇyaḥ / hāriṣeṇyaḥ / lākṣaṇyaḥ / kāribhyaḥ - tāntuvāyyaḥ / kaumbhakāryaḥ / nāpityaḥ // udīcām iñ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.