ण्ये प्राप्ते इञ् अपरो विधीयते । सेनान्त-लक्षण-कारिभ्यो ऽपत्ये इञ् प्रत्ययो भवति उदीचां मतेन । कारिषेणिः । हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । वचनसामर्थ्याद् एव प्रत्यय-समावेशे लब्धे आचार्य-ग्रहणं वैचित्र्य्-आर्थम् । तक्षन्-शब्दः शिवादिः, तेन अणा अयम् इञ् बाध्यते, न तु ण्यः । तक्ष्णो ऽपत्यं ताक्ष्णः, ताक्षण्यः ॥ तिकादिभ्यः फिञ्
ṇye prāpte iñ aparo vidhīyate / senānta-lakṣaṇa-kāribhyo 'patye iñ pratyayo bhavati udīcāṃ matena / kāriṣeṇiḥ / hāriṣeṇiḥ / lākṣaṇiḥ / tāntuvāyiḥ / kaumbhakāriḥ / vacanasāmarthyād eva pratyaya-samāveśe labdhe ācārya-grahaṇaṃ vaicitry-ārtham / takṣan-śabdaḥ śivādiḥ, tena aṇā ayam iñ bādhyate, na tu ṇyaḥ / takṣṇo 'patyaṃ tākṣṇaḥ, tākṣaṇyaḥ // tikādibhyaḥ phiñ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.