कौशल्य-कार्मार्य-शब्दाभ्याम् अपत्ये फिञ् प्रत्ययो भवति । इञो ऽपवादः । कौशल्यायनिः । कार्मार्यायणिः । परमप्रकृतेर् एव अयं प्रतययः इष्यते, कौशलस्य अपत्यं, कर्मारस्य पत्यम् इति । प्रत्ययसन्नियोगेन तु प्रकृति-रूपं निपात्यते । यथा च स्मृत्यन्तरम्, दगुकोसलकर्मारच्छागवृषाणां युट् वादिष्टस्य इति । दागव्यायनिः । कौसल्यायनिः । कार्मार्यायणिः । छग्यायनिः । वार्ष्यायणिः ॥ अणो द्व्यचः
kauśalya-kārmārya-śabdābhyām apatye phiñ pratyayo bhavati / iño 'pavādaḥ / kauśalyāyaniḥ / kārmāryāyaṇiḥ / paramaprakṛter eva ayaṃ pratayayaḥ iṣyate, kauśalasya apatyaṃ, karmārasya patyam iti / pratyayasanniyogena tu prakṛti-rūpaṃ nipātyate / yathā ca smṛtyantaram, dagukosalakarmāracchāgavṛṣāṇāṃ yuṭ vādiṣṭasya iti / dāgavyāyaniḥ / kausalyāyaniḥ / kārmāryāyaṇiḥ / chagyāyaniḥ / vārṣyāyaṇiḥ // aṇo dvyacaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.