अणन्ताद् द्व्यचः प्रातिपदिकाद् अपत्ये फिञ् प्रत्ययो भवति । इञो ऽपवादः । कार्त्रायणिः । हार्त्रायणिः । अणः इति किम् ? दाक्षायणः । द्व्यचः इति किम् ? औपगविः । त्यदादीनां वा फिञ् वक्तवय्ः । त्यादायनिः, त्यादः । यादायनिः, यादः । तादायनिः, तादः । अणत्र प्राप्तः ॥ उदीचां वृद्धाद् अगोत्रात्
aṇantād dvyacaḥ prātipadikād apatye phiñ pratyayo bhavati / iño 'pavādaḥ / kārtrāyaṇiḥ / hārtrāyaṇiḥ / aṇaḥ iti kim ? dākṣāyaṇaḥ / dvyacaḥ iti kim ? aupagaviḥ / tyadādīnāṃ vā phiñ vaktavayḥ / tyādāyaniḥ, tyādaḥ / yādāyaniḥ, yādaḥ / tādāyaniḥ, tādaḥ / aṇatra prāptaḥ // udīcāṃ vṛddhād agotrāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.