वाकिन इत्य् एवम् आदिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति, तत् संनियोगेन च+एषां कुग्-आगमः । यदिह वृद्धम् अगोत्रं शब्दरूपं तस्य आगम-अर्थम् एव ग्रहणम्, अन्येषाम् उभय-अर्थम् । वाकिनकायनिः । गारेधकायनिः । इञाद्यपवादो योगः । उदीचाम् इत्य् अधिकारात् पक्षे ते ऽपि भवन्ति । वाकिनिः । गारेधिः । वाकिन । गारेध । कार्कट्य । काक । लङ्का । चर्मिवर्मिणोर् नलोपश् च ॥ पुत्रान्ताद् अन्यतरस्याम्
vākina ity evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati, tat saṃniyogena ca+eṣāṃ kug-āgamaḥ / yadiha vṛddham agotraṃ śabdarūpaṃ tasya āgama-artham eva grahaṇam, anyeṣām ubhaya-artham / vākinakāyaniḥ / gāredhakāyaniḥ / iñādyapavādo yogaḥ / udīcām ity adhikārāt pakṣe te 'pi bhavanti / vākiniḥ / gāredhiḥ / vākina / gāredha / kārkaṭya / kāka / laṅkā / carmivarmiṇor nalopaś ca // putrāntād anyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.