वृद्धं यच्छब्द-रूपम् अगोत्रं, तस्माद् अपत्ये फिञ् प्रत्ययो भवति उदीचाम् आचार्याणां मतेन । आम्रगुप्तायनिः । ग्रामरक्षायणिः । कारिशब्दाद् अपि वृद्धाद् अगोत्रात् परत्वाद् अनेन+एव भवितव्यम् । नापितायनिः । उदीचाम् इति किम् ? आम्रगुप्तिः । वृद्धाद् इति किम् ? याज्ञदत्तिः । अगोत्राद् इति किम् ? औपगविः ॥ वाकिन-अदीनां कुक् च
vṛddhaṃ yacchabda-rūpam agotraṃ, tasmād apatye phiñ pratyayo bhavati udīcām ācāryāṇāṃ matena / āmraguptāyaniḥ / grāmarakṣāyaṇiḥ / kāriśabdād api vṛddhād agotrāt paratvād anena+eva bhavitavyam / nāpitāyaniḥ / udīcām iti kim ? āmraguptiḥ / vṛddhād iti kim ? yājñadattiḥ / agotrād iti kim ? aupagaviḥ // vākina-adīnāṃ kuk ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.