अवृद्धाच् छब्दरूपाद् अपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन । ग्लुचुकायनिः । अहिचुम्बकायनिः । प्राचाम् इति किम् ? ग्लौचुकिः । अवृद्धात् इति किम् ? राजदन्तिः । उदीचां प्राचाम् अन्यतरस्यां बहुलम् इति सर्व एते विकल्प-अर्थस् तेषाम् एकेन+एव सिध्यति । तत्र आचार्य-ग्रहणं पूज-अर्थम् । बहुल-ग्रहणम् वैचित्र्य-अर्थम् । कव्चिन् न भवत्य् एव, दाक्षिः । प्लाक्षिः ॥ मनोर् जाताव् अञ्-अयतौ षुक् च
avṛddhāc chabdarūpād apatye phin pratyayo bhavati bahulaṃ prācāṃ matena / glucukāyaniḥ / ahicumbakāyaniḥ / prācām iti kim ? glaucukiḥ / avṛddhāt iti kim ? rājadantiḥ / udīcāṃ prācām anyatarasyāṃ bahulam iti sarva ete vikalpa-arthas teṣām ekena+eva sidhyati / tatra ācārya-grahaṇaṃ pūja-artham / bahula-grahaṇam vaicitrya-artham / kavcin na bhavaty eva, dākṣiḥ / plākṣiḥ // manor jātāv añ-ayatau ṣuk ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.