जनपदशब्दो यः क्षत्रिय-वाची, तस्माद् अपत्ये अञ् प्रत्ययो भवति । पाज्चालः ऐक्ष्वाकः । वैदेहः । जनपदशब्दात् इति किम् ? द्रुह्योर् अपत्यं द्रौह्यवः । पुरवः । क्षत्रियात् इति किम् ? ब्राह्मणस्य पञ्चालस्य अपत्यं पाञ्चालिः । वैदेहिः । क्षत्रियसमानशब्दाज् जनपदशब्दात् तस्य राजन्यप्त्यवत् । पञ्चालानां राजा पाञ्चालः । वैदेहः । मागधः ॥ साल्वेय-गान्धारिभ्यां च
janapadaśabdo yaḥ kṣatriya-vācī, tasmād apatye añ pratyayo bhavati / pājcālaḥ aikṣvākaḥ / vaidehaḥ / janapadaśabdāt iti kim ? druhyor apatyaṃ drauhyavaḥ / puravaḥ / kṣatriyāt iti kim ? brāhmaṇasya pañcālasya apatyaṃ pāñcāliḥ / vaidehiḥ / kṣatriyasamānaśabdāj janapadaśabdāt tasya rājanyaptyavat / pañcālānāṃ rājā pāñcālaḥ / vaidehaḥ / māgadhaḥ // sālveya-gāndhāribhyāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.