जन्पदशब्दात् क्षत्रियाद् अञ् (*४,१।१६८) इत्य् एवम् आदयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते, न तु पूर्वे, गोत्रयुवसञ्ज्ञाकान्डेन व्यवहितत्वात् । ते ऽञादयः तद्राजसञ्ज्ञा भवन्ति । तथा चोदाहृतम् । तद्राजप्रदेशाः - तद्राजस्य बहुषु तेन+एव अस्त्रियाम् (*२,४।६२) इत्य् एवम् आदयः ॥ कम्बोजाल् लुक्
janpadaśabdāt kṣatriyād añ (*4,1.168) ity evam ādayaḥ pratyayāḥ sarvanāmnā pratyavamṛśyante, na tu pūrve, gotrayuvasañjñākānḍena vyavahitatvāt / te 'ñādayaḥ tadrājasañjñā bhavanti / tathā codāhṛtam / tadrājapradeśāḥ - tadrājasya bahuṣu tena+eva astriyām (*2,4.62) ity evam ādayaḥ // kambojāl luk
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.