जनपदशब्दात् क्षत्रियात् इत्य् अनेन विहितस्य अञो लुग् उच्यते । कम्बोजात् प्रत्ययस्य लुक् भवति । कम्बोजः । कम्बोजादिभ्यो लुग्-वचनं चोलाद्यर्थम् । चोलः । केरलः । शकः । यवनः । तस्य राजनि इत्य् एव, कम्बोजो राजा ॥ स्त्रियाम् अवन्ति-कुन्ति-कुरुभ्यश् च
janapadaśabdāt kṣatriyāt ity anena vihitasya año lug ucyate / kambojāt pratyayasya luk bhavati / kambojaḥ / kambojādibhyo lug-vacanaṃ colādyartham / colaḥ / keralaḥ / śakaḥ / yavanaḥ / tasya rājani ity eva, kambojo rājā // striyām avanti-kunti-kurubhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.