कापिशी-शब्दात् ष्फक् प्रत्ययो भवति शैषिकः । षकारो ङीष्-अर्थः । कापिशायनं मधु । कापिशायनी द्राक्षा । बाह्ल्युर्दिपर्दिभ्यश् च+इति वक्तव्यम् । बाह्लायनी । और्दायनी । पार्दायनी ॥ रङ्कोर् अमनुष्ये ऽण् च
kāpiśī-śabdāt ṣphak pratyayo bhavati śaiṣikaḥ / ṣakāro ṅīṣ-arthaḥ / kāpiśāyanaṃ madhu / kāpiśāyanī drākṣā / bāhlyurdipardibhyaś ca+iti vaktavyam / bāhlāyanī / aurdāyanī / pārdāyanī // raṅkor amanuṣye 'ṇ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.