ऐषमस् ह्यस् श्वस् इत्य् एतेभ्यो ऽन्यतरस्यां त्यप् पत्ययो भवति शैषिकः । ऐषमस्त्यम्, ऐषमस्तनम् । ह्यस्त्यम्, ह्यस्तनम् । श्वस्त्यम्, श्वस्तनम् । श्वसस्तुट् च (*४,३।१५) इति ठञ् अपि तृतीयो भवति । शौवस्तिकम् ॥ तीर-रूप्य-उत्तरपदाद् अञ्-ञौ
aiṣamas hyas śvas ity etebhyo 'nyatarasyāṃ tyap patyayo bhavati śaiṣikaḥ / aiṣamastyam, aiṣamastanam / hyastyam, hyastanam / śvastyam, śvastanam / śvasastuṭ ca (*4,3.15) iti ṭhañ api tṛtīyo bhavati / śauvastikam // tīra-rūpya-uttarapadād añ-ñau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.