तीर-उत्तरपदात् रूप्य-उत्तरपदाच् च प्रातिपदिकाद् यथासङ्ख्यम् अञ् ञ इत्य् एतौ प्रत्ययौ भवतः शैषिकौ । अणो ऽपवादौ । काकतीरम् । पाल्वलतीरम् । रूप्योत्तरपदात् - वार्करूप्यम् । शैवरूप्यम् । तीररूप्यान्तात् इति नोक्तं बहुच्-प्रत्यय-पूर्वाद् मा भूत् इति । बाहुरूप्यम् । अणेव भवति ॥ दिक्-पूर्वपदाद् असञ्ज्ञायां ञः
tīra-uttarapadāt rūpya-uttarapadāc ca prātipadikād yathāsaṅkhyam añ ña ity etau pratyayau bhavataḥ śaiṣikau / aṇo 'pavādau / kākatīram / pālvalatīram / rūpyottarapadāt - vārkarūpyam / śaivarūpyam / tīrarūpyāntāt iti noktaṃ bahuc-pratyaya-pūrvād mā bhūt iti / bāhurūpyam / aṇeva bhavati // dik-pūrvapadād asañjñāyāṃ ñaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.