देशे इत्य् एव । वृद्धाद् देश-वाचिनः अक इक इत्य् एवम् अन्तात् खकारोपधाच् च प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः । कोपध-लक्षणस्य अणो ऽपवादः । वाहीकग्राम-लक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचाम् (*४,२।१२३) इति च । अकान्तात् तावत् - आरीहणकीयम् । द्रौघणकीयम् । इकान्तात् - आश्वपथिकीयम् । शाल्मलिकीयम् । खोपधात् - कौटिशिखीयम् । आयोमुखीयम् । अकेकान्त-ग्रहणे कोपध-ग्रहणं सौसुकाद्यर्थम् । सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ॥ कन्था-पलद-नगर-ग्राम-ह्रद-उत्तरपदात्
deśe ity eva / vṛddhād deśa-vācinaḥ aka ika ity evam antāt khakāropadhāc ca prātipadikāt chaḥ pratyayo bhavati śaisikaḥ / kopadha-lakṣaṇasya aṇo 'pavādaḥ / vāhīkagrāma-lakṣaṇasya ca pratyayasya, ropadhetoḥ prācām (*4,2.123) iti ca / akāntāt tāvat - ārīhaṇakīyam / draughaṇakīyam / ikāntāt - āśvapathikīyam / śālmalikīyam / khopadhāt - kauṭiśikhīyam / āyomukhīyam / akekānta-grahaṇe kopadha-grahaṇaṃ sausukādyartham / sausukīyam / mausukīyam / aindraveṇukīyam // kanthā-palada-nagara-grāma-hrada-uttarapadāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.