फल्गुन्य्-आदयः पौर्णमासी-शब्दाः तेभ्यो विभाषा ठक् प्रत्ययो भवति, सा ऽस्मिन् पौर्णमासी इति सज्ञायाम् (*४,२।२१) इत्य् एतस्मिन् विषये । नित्यम् अणि प्राप्ते पक्षे ठग् विधीयते । फाल्गुनो मासः, फाल्गुनिकः । श्रावणः, श्रावणिकः । कार्तिकः, कार्तिकिकः । चैत्रः, चैत्रिकः ॥ सा ऽस्य देवता
phalguny-ādayaḥ paurṇamāsī-śabdāḥ tebhyo vibhāṣā ṭhak pratyayo bhavati, sā 'smin paurṇamāsī iti sajñāyām (*4,2.21) ity etasmin viṣaye / nityam aṇi prāpte pakṣe ṭhag vidhīyate / phālguno māsaḥ, phālgunikaḥ / śrāvaṇaḥ, śrāvaṇikaḥ / kārtikaḥ, kārtikikaḥ / caitraḥ, caitrikaḥ // sā 'sya devatā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.