लाक्षादिभ्यो रागवचनेभ्यस् तृतीयासमर्थेभ्यो रक्तम् इत्य् एतस्मिन्न् अर्थे ठक् प्रत्ययो भवति । अणो ऽपवादः । लाक्षया रक्तं वस्त्रम् लाक्षिकम् । रौचनिकम् । शाकलिकम् । कार्दमिकम् । शकलकर्दमाभ्यामणपीष्यते । शाकलम् । कार्दम् । नील्या अन् वक्तव्यः । नील्या रक्तं नीलं वस्त्रम् । पीतात् कन् वक्तव्यः । पीतेन रक्तं पीतकम् । हरिद्रामहारजनाभ्यामञ् वक्तव्यः । हारिद्रम् । माहरजनम् ॥ नक्षत्रेण युक्तं कालः
lākṣādibhyo rāgavacanebhyas tṛtīyāsamarthebhyo raktam ity etasminn arthe ṭhak pratyayo bhavati / aṇo 'pavādaḥ / lākṣayā raktaṃ vastram lākṣikam / raucanikam / śākalikam / kārdamikam / śakalakardamābhyāmaṇapīṣyate / śākalam / kārdam / nīlyā an vaktavyaḥ / nīlyā raktaṃ nīlaṃ vastram / pītāt kan vaktavyaḥ / pītena raktaṃ pītakam / haridrāmahārajanābhyāmañ vaktavyaḥ / hāridram / māharajanam // nakṣatreṇa yuktaṃ kālaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.