गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूहः इत्य् एतस्मिन् विषये । अपत्य-अधिकाराद् अन्यत्र लौकिकं गोत्रं गृह्यते ऽपत्यमात्रं, न तु पौत्रप्रभृत्येव । औपगवानां समूहः औपगवकम् । कापटवकम् । उक्षन् - औक्षकम् । उष्ट्र - औष्ट्रकम् । उरभ्र - औरभ्रकम् । राजन् - राजकम् । राजन्य - राजन्यकम् । राजपुत्र - राजपुत्रकम् । वत्स - वात्सकम् । मनुष्य - मानुष्यकम् । अज - आजकम् । प्रकृत्या ऽके राजन्यमनुष्ययुवानः इति यलोपो न भवति, आपत्यसय् च तद्धिते ऽनाति (*६,४।१५१) इति । वृद्धाच्चेति वक्तव्यम् । वृद्धानां समूहो वार्धकम् ॥ केदाराद् यञ् च
gotrādibhyo vuñ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye / apatya-adhikārād anyatra laukikaṃ gotraṃ gṛhyate 'patyamātraṃ, na tu pautraprabhṛtyeva / aupagavānāṃ samūhaḥ aupagavakam / kāpaṭavakam / ukṣan - aukṣakam / uṣṭra - auṣṭrakam / urabhra - aurabhrakam / rājan - rājakam / rājanya - rājanyakam / rājaputra - rājaputrakam / vatsa - vātsakam / manuṣya - mānuṣyakam / aja - ājakam / prakṛtyā 'ke rājanyamanuṣyayuvānaḥ iti yalopo na bhavati, āpatyasay ca taddhite 'nāti (*6,4.151) iti / vṛddhācceti vaktavyam / vṛddhānāṃ samūho vārdhakam // kedārād yañ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.