चत्वारो ऽर्थाः अनुवर्तन्ते । उ-वर्णान्तात् प्रातिपदिकात् यथविहितं समर्थविभक्ति-युक्तात् अञ् प्रत्ययो भवति तद् अस्मिन्न् अस्ति इत्य् एवम् आदिष्व् अर्थेषु । अणो ऽपवादः । अरडु - आरडवम् । कक्षतु - काक्षतवम् । कर्कटेलु - कार्कटेलवम् । नद्यां तु परत्वान् मतुब् भवति । इक्षुमती । अञधिकारः प्राक् सुबास्त्वादिभ्यो ऽणः ॥ मतोश् च बह्व्-अज्-अङ्गात्
catvāro 'rthāḥ anuvartante / u-varṇāntāt prātipadikāt yathavihitaṃ samarthavibhakti-yuktāt añ pratyayo bhavati tad asminn asti ity evam ādiṣv artheṣu / aṇo 'pavādaḥ / araḍu - āraḍavam / kakṣatu - kākṣatavam / karkaṭelu - kārkaṭelavam / nadyāṃ tu paratvān matub bhavati / ikṣumatī / añadhikāraḥ prāk subāstvādibhyo 'ṇaḥ // matoś ca bahv-aj-aṅgāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.