देशे तन्नम्नि इत्य् अस्य विशेषनं सौवीरादयः, स्त्रीत्वं च । ङ्याप्प्रातिपदिकात् अञ् प्रत्ययो भवति चातुरर्थिकः, अणो ऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि । सौवीरे तावत् - दत्तमित्रेण निर्वृत्ता नगरी दात्तामित्री । साल्वे - विधूमाग्निना निर्वृत्ता वैधूमाग्नी । प्राचि खल्व् अपि - ककन्देन निर्वृत्ता काकन्दी । माकन्दी । मणिचरी । जारुषी ॥ सुवास्त्व्-आदिभ्यो ऽण्
deśe tannamni ity asya viśeṣanaṃ sauvīrādayaḥ, strītvaṃ ca / ṅyāpprātipadikāt añ pratyayo bhavati cāturarthikaḥ, aṇo 'pavādaḥ, sauvīre strīliṅge deśe vācye sālve prāci / sauvīre tāvat - dattamitreṇa nirvṛttā nagarī dāttāmitrī / sālve - vidhūmāgninā nirvṛttā vaidhūmāgnī / prāci khalv api - kakandena nirvṛttā kākandī / mākandī / maṇicarī / jāruṣī // suvāstv-ādibhyo 'ṇ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.