सुबास्तु इत्य् एवम् आदिभ्यः अण् प्रत्ययो भवति चातुरर्थिकः । अञ उ-वर्णान्त-लक्षणस्य कूप-लक्षणस्य च अपवादः । सुवास्तोः अदूरभवं नगरं सौवास्तवम् । वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधन-अर्थम् । सौवास्तवी नदी । सुवास्तु । वर्णु । भण्डु । खण्डु । सेचालिन् । कर्पूरिन् । शिखण्दिन् । गर्त । कर्कश । शटीकर्ण । कृष्ण । कर्क । कर्ङ्कधू मती । गोह्य । अहिसक्थ । वृत् ॥ रोणी
subāstu ity evam ādibhyaḥ aṇ pratyayo bhavati cāturarthikaḥ / aña u-varṇānta-lakṣaṇasya kūpa-lakṣaṇasya ca apavādaḥ / suvāstoḥ adūrabhavaṃ nagaraṃ sauvāstavam / vārṇavam / aṇgrahaṇaṃ nadyāṃ matupo bādhana-artham / sauvāstavī nadī / suvāstu / varṇu / bhaṇḍu / khaṇḍu / secālin / karpūrin / śikhaṇdin / garta / karkaśa / śaṭīkarṇa / kṛṣṇa / karka / karṅkadhū matī / gohya / ahisaktha / vṛt // roṇī
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.