प्राग्दीव्यतो ऽण् प्राप्तः कालठञा बाधितः संधिवेलाद्य्-ऋतु-नक्षत्रेभ्यः इति पुनर् विधियते स वा डिद् भवति इति वक्तव्यम् । शतभिषजि जातः । शातभिषजः, शातभिषः । तीयादीकक् स्वार्थे वा वक्तव्यः । द्वैतीयीकम् । तार्तीयीकम् । द्वितीयकम् । तृतीयकम् । न विद्यायः । द्वितीया, तृतीया विद्या । गोत्रादङ्कवदिष्यते । दृष्टं साम इत्य् एतस्मिन्न् अर्थे । औपगवेन दृष्टं साम औपगवकम् । कापटवकम् । गोत्रचरणाद् वुञ् भवति । दृष्टे सामनि जाते च द्विरण् डिद्वा विधीयते । तीयादीकक् न विद्याया गोत्रादङ्कवदिष्यते ॥ वामदेवाड् ड्यड्-ड्यौ
prāgdīvyato 'ṇ prāptaḥ kālaṭhañā bādhitaḥ saṃdhivelādy-ṛtu-nakṣatrebhyaḥ iti punar vidhiyate sa vā ḍid bhavati iti vaktavyam / śatabhiṣaji jātaḥ / śātabhiṣajaḥ, śātabhiṣaḥ / tīyādīkak svārthe vā vaktavyaḥ / dvaitīyīkam / tārtīyīkam / dvitīyakam / tṛtīyakam / na vidyāyaḥ / dvitīyā, tṛtīyā vidyā / gotrādaṅkavadiṣyate / dṛṣṭaṃ sāma ity etasminn arthe / aupagavena dṛṣṭaṃ sāma aupagavakam / kāpaṭavakam / gotracaraṇād vuñ bhavati / dṛṣṭe sāmani jāte ca dviraṇ ḍidvā vidhīyate / tīyādīkak na vidyāyā gotrādaṅkavadiṣyate // vāmadevāḍ ḍyaḍ-ḍyau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.