तेन इति तृतीया-समर्थात् प्रोक्तम् इत्य् अस्मिन्न् अर्थे यथाविहितं प्रत्ययो भवति । प्रकर्षेण+उक्तम् प्रोक्तम् इत्य् उच्यते, न तु कृतम्, कृते ग्रन्थे (*४,३।११६) इत्य् अनेन गतार्थत्वात् । अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः । पाणिनीयम् । आपिशलम् । काशकृत्स्नम् ॥ तित्तिरि-वरतन्तु-खण्डिक-उखाच् छण्
tena iti tṛtīyā-samarthāt proktam ity asminn arthe yathāvihitaṃ pratyayo bhavati / prakarṣeṇa+uktam proktam ity ucyate, na tu kṛtam, kṛte granthe (*4,3.116) ity anena gatārthatvāt / anyena kṛtā māthureṇa proktā māthurī vṛttiḥ / pāṇinīyam / āpiśalam / kāśakṛtsnam // tittiri-varatantu-khaṇḍika-ukhāc chaṇ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.