भाषायाम् अभक्ष्याच्छादनयोः इत्य् एव । वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश् च अभक्ष्याच्छादनयोः विकारावयवयोः भाषायां विषये नित्यं मयट् प्रत्ययो भवति । वृद्धेभ्यस् तावत् - आम्रमयम् । शालमयम् । शाकमयम् । शरादिभ्यः - शरमयम् । दर्भमयम् । मृन्मयम् । नित्य-ग्रहणं किं यावता आरम्भ-सामर्थ्याद् एव नित्यं भविस्यति ? एक-अचो नित्यं मयटमिच्छन्ति, तद् अनेन क्रियते, त्वङ्मयम्, स्रङ्मयम् , वाङ्मयम् इति । शर । दर्भ । मृत् । कुटी । तृण । सोम । बल्वज । शरादिः ॥ गोश् च पुरीषे
bhāṣāyām abhakṣyācchādanayoḥ ity eva / vṛddhebhyaḥ prātipadikebhyaḥ śarādibhyaś ca abhakṣyācchādanayoḥ vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo bhavati / vṛddhebhyas tāvat - āmramayam / śālamayam / śākamayam / śarādibhyaḥ - śaramayam / darbhamayam / mṛnmayam / nitya-grahaṇaṃ kiṃ yāvatā ārambha-sāmarthyād eva nityaṃ bhavisyati ? eka-aco nityaṃ mayaṭamicchanti, tad anena kriyate, tvaṅmayam, sraṅmayam , vāṅmayam iti / śara / darbha / mṛt / kuṭī / tṛṇa / soma / balvaja / śarādiḥ // goś ca purīṣe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.