प्राणि-वाचिभ्यः प्रातिपदिकेभ्यो रजतदिभ्यश् च अञ् प्रत्ययो भवति विकारावयवयोर् अर्थयोः । अणादिनाम् अपवादः । अनुदात्तादेः अञ् विहित एव परिशिष्टम् इह+उदाहरणम् । प्राणिभ्यस्तावत् - कापोतम् । मायूरम् । तैत्तिरम् । रजतादिभ्यः - राजतम् । सैसम् । लौहम् । रजतादिषु ये ऽनुदात्तादयः पट्यन्ते रजतकण्डकरप्रभृतयस्तेभ्यो ऽञि सिद्धे पुनर्वचनं मयड्वाधनार्थम् । रजत । सीस । लोह । उदुम्बर । नीलदारु । रोहितक । बिभीतक । पीतदास । तीव्रदारु । त्रिकण्टक । कण्टकार । रजतादिः ॥ ञितश् च तत्प्रत्ययात्
prāṇi-vācibhyaḥ prātipadikebhyo rajatadibhyaś ca añ pratyayo bhavati vikārāvayavayor arthayoḥ / aṇādinām apavādaḥ / anudāttādeḥ añ vihita eva pariśiṣṭam iha+udāharaṇam / prāṇibhyastāvat - kāpotam / māyūram / taittiram / rajatādibhyaḥ - rājatam / saisam / lauham / rajatādiṣu ye 'nudāttādayaḥ paṭyante rajatakaṇḍakaraprabhṛtayastebhyo 'ñi siddhe punarvacanaṃ mayaḍvādhanārtham / rajata / sīsa / loha / udumbara / nīladāru / rohitaka / bibhītaka / pītadāsa / tīvradāru / trikaṇṭaka / kaṇṭakāra / rajatādiḥ // ñitaś ca tatpratyayāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.