अञ् इत्य् एव । तद् इति विकारावयवयोर् अर्थयोः प्रत्यवमर्शः । ञिद् यो विकारावयवप्रत्ययस् तदन्तात् प्रातिपदिकात् अञ् प्रत्ययो भवति विकारवयवयोः एव । मयटो ऽपवादः । ओरञ् (*४,२।७१), शम्याष्ट्लञ् (*४,३।१४२), प्राणिरजतादिभ्यो ऽञ् (*४,३।१५४), उष्ट्राद्वुञ् (*४,३।१५७), एण्या ढञ् (*४,३।१५९), कंसीय-परशव्ययोर् यञ्-अञौ लुक् च (*४,३।१६८) इत्य् एते प्रत्ययाः गृह्यन्ते । दैवदारवस्य विकारो ऽवयवो वा दैवदारवम् । दाधित्थस्य दाधित्थम् । पालाशस्य पालाशम् । शामीलस्य शामीलम् । कापोतस्य कापोतम् । औष्ट्रकस्य औष्ट्रकम् । ऐणेयस्य ऐणेयम् । कांस्यस्य कांस्यम् । पारशवस्य पारशवम् । ञितः इति किम् ? बैल्वमयम् । तत्प्रत्ययात् इति किम् ? बैदमयम् ॥ क्रीतवत् प्रैमाणात्
añ ity eva / tad iti vikārāvayavayor arthayoḥ pratyavamarśaḥ / ñid yo vikārāvayavapratyayas tadantāt prātipadikāt añ pratyayo bhavati vikāravayavayoḥ eva / mayaṭo 'pavādaḥ / orañ (*4,2.71), śamyāṣṭlañ (*4,3.142), prāṇirajatādibhyo 'ñ (*4,3.154), uṣṭrādvuñ (*4,3.157), eṇyā ḍhañ (*4,3.159), kaṃsīya-paraśavyayor yañ-añau luk ca (*4,3.168) ity ete pratyayāḥ gṛhyante / daivadāravasya vikāro 'vayavo vā daivadāravam / dādhitthasya dādhittham / pālāśasya pālāśam / śāmīlasya śāmīlam / kāpotasya kāpotam / auṣṭrakasya auṣṭrakam / aiṇeyasya aiṇeyam / kāṃsyasya kāṃsyam / pāraśavasya pāraśavam / ñitaḥ iti kim ? bailvamayam / tatpratyayāt iti kim ? baidamayam // krītavat praimāṇāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.